श्री ब्रह्माण्ड पावन कृष्ण कवच | Shri krishna kavacham |


श्री ब्रह्माण्ड पावन कृष्ण कवच



विनियोग:

ॐ अस्य श्री ब्रह्माण्डपावन कवचस्य साक्षात् श्रीहरिः ऋषिः 

गायत्रीछन्दः स एव जगदीश्वरः श्रीकृष्णो देवता 

(धर्म अर्थ काम) धर्मार्थ काम मोक्षेषु जपे विनियोगः || 


 || ब्रह्मोवाच ||

राधाकान्त महाभाग कवचं यत् प्रकाशितम् |

ब्रह्माणडपावनं नाम कृपया कथय प्रभो ||


मां महेशं च धर्मं च भक्तं च भक्तवत्सल |

त्वत्प्रसादेन पुत्रेभ्यो दास्यामि भक्तिसंयुतः ||


|| श्री कृष्ण उवाच ||

शृणु वक्ष्यामि ब्रह्मेश धर्मेदं कवचं परम् |

अहं दास्यामि युष्मभ्यं गोपनीयं सुदुर्लभम् ||


यस्मै कस्मै न दातव्यं प्राणतुल्यं ममैव हि |

यत्तेजो मम देहेऽस्ति तत्तेजः कवचेपि च ||


कुरु सृष्टिमिमं धृत्वा धाता त्रिजगतां भव |

संहर्त्ता भव हे शम्भो मम तुल्यो भवे भव ||


हे धर्म त्वमिमं धृत्वा भव साक्षी च कर्मणाम् |

तपसां फलदाता च यूयं भवत मद्वरात् ||

ब्रह्माण्डपावनस्यास्य कवचस्य हरिः स्वयम् |

ऋषिश्छन्दश्च गायत्री देवोऽहं जगदीश्वर: || 

धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः |

त्रिलक्षवारपठनात् सिद्धिदं कवचं विधे ||


यो भवेत् सिद्धकवचो मम तुल्यो भवेत्तु सः |

तेजसा सिद्धियोगेन ज्ञानेन विक्रमेण च ||


प्रणवो मे शिरः पातु नमो रासेश्वराय च |

भालं पायान्नेत्रयुग्मं नमो राधेश्वराय च ||


कृष्णः पायाच्छोत्रयुग्मं हे हरे घ्राणमेव च |

जिह्विकां वह्निजाया तु कृष्णायेति च सर्वतः ||


श्रीकृष्णाय स्वाहेति च कण्ठं पातु षडक्षरः |

ह्रीं  कृष्णाय नमो वक्त्रं  क्लीं पूर्वश्च भुजद्वयम् ||


नमो गोपाङ्ग नेशाय स्कन्धावष्टाक्षरोवतु |

दन्तपंक्तिमोष्ठयुग्मं नमो गोपीश्वराय च ||


ॐ नमो भगवते रासमण्डलेशाय स्वाहा |

स्वयं वक्षःस्थलं पातु मन्त्रोयं षोडशाक्षर: ||


ऐं कृष्णाय स्वाहेति च कर्णयुग्मं सदाऽवतु |

ॐ विष्णवे स्वाहेति च कंकालं सर्वतोवतु ||


ॐ हरये नम इति पृष्ठं पादं सदावतु |

ॐ गोवर्द्धनधारिणे स्वाहा सर्वशरीरकम् ||


प्राच्यां मां पातु श्रीकृष्ण आग्नेय्यां पातु माधवः |

दक्षिणे पातु गोपीशो नैरृत्यां नन्दनन्दनः ||


वारुण्यां पातु गोविन्दो वायव्यां राधिकेश्वरः |

उत्तरे पातु रासेश ऐशान्यामच्युतः स्वयम् ||


सन्ततं सर्वतः पातु परो नारायणः स्वयम् |

इति ते कथितं ब्रह्मन् कवचं परमाद्भुतम् ||


मम जीवनतुल्यं च युष्मभ्यं दत्तमेव च |


अश्वमेधसहस्राणि वाजपेयशतानि च |

कलां नार्हन्ति तान्येव कवचस्यैव धारणात् ||


गुरुमभ्यर्च्य विधिवद्वस्त्रालंकारवन्दनै (चन्दनैः)|

स्त्रात्वा तं च नमस्कृत्य कवचं धारयेत् सुधी: ||


कवचस्य प्रसादेन जीवनमुक्तोभवेन्नरः |

यदि स्यात् सिद्धकवचो विष्णुरेव भवेद् द्विज ||

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post