गंगा आवाहन स्तुति
विष्णुपादप्रसूतासि वैष्णवी विष्णुदेवता ||
त्राहि नस्त्वेनसस्मादाजन्ममरणान्तिकाम् |
तिस्त्रःकोट्योऽर्धकोटी च तीर्थानां वायुरब्रवीत् ||
दिवि भुव्यन्तरिक्षे च तानि ते सन्ति जाह्नवी |
नन्दिनीति च ते नाम देवेषु नलिनीति च ||
दक्षा पृथ्वी विद्गंगा विश्वकाया शिवामृता|
विद्याधरी महादेवी तथा लोकप्रसादिनी ||
क्षेमङ्करी जाह्नवी च शान्ता शान्तिप्रदायिनी ||
|| अस्तु ||
Tags:
Stotra